१ आदिपर्व.jpg)
॥ श्रीः ॥
1.105. अध्यायः 105
Mahabharata - Adi Parva - Chapter Topics
गङ्गया जातमात्रस्य पुत्रसप्तकस्य हननम्॥ 1 ॥ अष्टमपुत्रहननोद्युक्तां स्वभार्यां प्रति शांन्तनुप्रश्नाः॥ 2 ॥ पूर्ववृत्तकथनपूर्वकं गङ्गायाः प्रतिवचनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-105-0x(644)(4631)
संवत्सरानृतून्मासान्बुबुधे न बहून्गतान्।
रममाणस्तया सार्धं यथाकामं नरेश्वरः॥ 1-105-1(4632)
`दिविष्ठान्मानुषांश्चैव भोगान्भुङ्क्ते स वै नृपः।'
आसाद्य शान्तनुः श्रीमान्मुमुदे योषितां वराम्॥ 1-105-2(4633)
ऋतुकाले तु सा देवी दिव्यं गर्भमधारयत्।
अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान्॥ 1-105-3(4634)
जातं जातं च सा पुत्रं क्षिपत्यम्यसि भारत।
सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम्॥ 1-105-4(4635)
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत्।
तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा॥ 1-105-5(4636)
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः।
`अमीमांस्या कर्मयोनिरागमश्चेति शान्तनुः॥ 1-105-6(4637)
स्मरन्पितृवचश्चैव नापृच्छत्पुत्रकिल्बिषम्।
जाताञ्जातांश्च वै हन्ति सा स्त्री सप्त वरान्सुतान्॥ 1-105-7(4638)
शान्तनुर्धर्मभङ्गाच्च नापृच्छत्तां कथंचन।
अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः॥' 1-105-8(4639)
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव।
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः॥ 1-105-9(4640)
`आलभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः।
अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः॥' 1-105-10(4641)
मावधीः कस्य काऽसीति किं हिनत्सि सुतानिति।
पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम्॥ 1-105-11(4642)
गङ्गोवाच। 1-105-12x(645)
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर।
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः॥ 1-105-12(4643)
अहं गङ्गा जह्नुसुता महर्षिगणसेविता।
देवकार्यार्थसिद्ध्यर्थमुषिताऽहं त्वया सह॥ 1-105-13(4644)
इमेऽष्टौ वसवो देवा महाभागा महौजसः।
वसिष्ठशापदोषेण मानुषत्वमुपागताः॥ 1-105-14(4645)
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते।
मद्विधा मानुषी धात्री लोके नास्तीह काचन॥ 1-105-15(4646)
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता।
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः॥ 1-105-16(4647)
देवानां समयस्त्वेष वसूनां संश्रुतो मया।
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति॥ 1-105-17(4648)
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः।
स्वस्ति तेस्तु गमिष्यामि पुत्रं पाहि महाव्रतम्॥ 1-105-18(4649)
`अयं तव सुतस्तेषां वीर्येण कुलनन्दनः।
संभूतोतिजनं कर्म करिष्यति न संशयः॥' 1-105-19(4650)
एष पर्यायवासो मे वसूनां सन्निधौ कृतः।
मत्प्रसूतिं विजानीहि गङ्गादत्तमिमं सुतम्॥ ॥ 1-105-20(4651)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाधिकशततमोऽध्यायः॥ 105 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-105-11 तेत्वया॥ 1-105-15 धात्री गर्भधारिणी॥ 1-105-17 संश्रुतोऽङ्गीकृतः॥ 1-105-18 आपवस्य वसिष्ठस्य॥ पञ्चाधिकशततमोऽध्यायः॥ 105 ॥

|